(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.41. अध्यायः 041
Mahabharata - Virata Parva - Chapter Topics
पाण्डवकार्मुकाद्यवलोकनविस्मितेनोत्तरकुमारेणार्जुनंप्रति तत्तदायुधवर्णनपूर्वकं तत्तत्स्वामिनां प्रश्नः ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text

उत्तर उवाच। 4-41-0x(3181)(30152)
सारथे किमिदं दिव्यं नागो वा यदि वा धनुः।
सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः ।
कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च ॥ 4-41-1(30153)
बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः।
शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः ॥ 4-41-2(30154)
पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः ।
विस्मापनीयरूपं च भीमं भीमप्रदर्शनम् ॥ 4-41-3(30155)
नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम्।
ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः ॥ 4-41-4(30156)
तालप्रमाणं कस्येदं मणिरुक्मविभूषितम्
हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश ॥ 4-41-5(30157)
दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् ।
कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः ॥ 4-41-6(30158)
चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः ।
हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः ।
शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः ॥ 4-41-7(30159)
चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम्।
नीलोपलिप्तमच्छिदं जातरूपमयं धनुः ।
मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः ॥ 4-41-8(30160)
शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः।
उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम् ॥ 4-41-9(30161)
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश ।
बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः।
जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः ॥ 4-41-10(30162)
कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः।
प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये ॥ 4-41-11(30163)
हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः।
आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः ॥ 4-41-12(30164)
विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः।
वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः ॥ 4-41-13(30165)
वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः।
सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः ॥ 4-41-14(30166)
कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः।
कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते ॥ 4-41-15(30167)
वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः ।
कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः ॥ 4-41-16(30168)
कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः।
नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान् ॥ 4-41-17(30169)
मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः।
ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम् ॥ 4-41-18(30170)
यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः।
कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः ॥ 4-41-19(30171)
निहितः पार्षते कोशे तैलधौतः समाहितः।
प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम्।
एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः ॥ 4-41-20(30172)
निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले।
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत् ॥ ॥ 4-41-21(30173)

इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकचत्वारिंशोऽध्यायः ॥ 41 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.